सोमवार, 24 जुलाई 2023

श्रीशिवपञ्चरत्नस्तुतिः / श्रीकृष्ण कृत / श्रीशिवमहापुराणे

 https://youtu.be/9Uy87OnrOL4  

श्रीकृष्ण उवाच

मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् ।
भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् ।
भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १॥

वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः ।
मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः ।
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २॥

कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै ।
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।
रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३॥

नक्तनाथकलाधरं नगजापयोधरनीरजा-
लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् ।
शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४॥

रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरम् ।
पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम् ।
वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५॥
॥ फलश्रुतिः॥
यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः ।
प्रातरेव मया कृतं निखिलाघतूलमहानलम् ।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात् ।
ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत ॥ ६॥

॥ इति श्रीशिवमहापुराणे च्युतपुरीमाहात्म्ये 
श्रीकृष्ण कृत श्रीशिवपञ्चरत्नस्तुतिः सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें