बुधवार, 10 जनवरी 2024

कोटिकण्ठगीतमिदं राष्ट्रमन्दिरं.../ रचना : डॉ. उमामहेश्वर / संगीत एवं गायन : नन्दलाल छंगा

 https://youtu.be/VfwlanSff7g?si=gF2HiV2UR39aLD-U

राममन्दिरगीतम्
कोटिकण्ठगीतमिदं राष्ट्रमन्दिरं
जयतु जयतु हृदयपुटे राममन्दिरम् ॥ ऋषिवसिष्ठकौशिकादिपूतमन्दिरं
महितभरतलक्ष्मणार्यशोभिमन्दिरम् ।
हनुमदादिजानकीसमेतमन्दिरं
जयतु जयतु हृदयपुटे राममन्दिरम् ॥१॥ वाल्मीकेर्हृदयमृगविहारमन्दिरं
रामायणकाव्यध्वनिनाट्यमन्दिरम् ।
सरयूतटमण्डितं प्रबोधमन्दिरं
जयतु जयतु हृदयपुटे राममन्दिरम् ॥२॥ त्यागबलिसमर्पणैरवाप्तमन्दिरं
सामरस्यपोषकं विशिष्टमन्दिरम् ।
विश्वगुरुपदप्रदं हि विश्वमन्दिरं
जयतु जयतु हृदयपुटे राममन्दिरम् ॥३॥ विश्वबन्धुभावसिन्धुवाहिमन्दिरं
कोटिभावजाह्रवीहिमाद्रिमन्दिरम् ।
धर्ममार्गदर्शकमिदमार्षमन्दिरं
जयतु जयतु हृदयपुटे राममन्दिरम् ॥४॥ आत्मनिर्भरत्वदायिशक्तिमन्दिरं
समस्तलोकशान्तिकारिभक्तिमन्दिरम्।
कार्यकर्तृसाधितं विमुक्तिमन्दिरं
जयतु जयतु हृदयपुटे राममन्दिरम् ॥५॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें