रविवार, 15 अक्तूबर 2023

बालं मुकुन्दं मनसा स्मरामि.../ गायन : मनीषा डॉक्टर

https://youtu.be/QpooOaHGGp8    

 

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । 
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥१॥ 

संहृत्य लोकान् वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् । 
सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ॥२॥
 
इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् । 
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ॥३॥ 

लंबालकं लंवितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् । 
बिंबाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥४॥
 
शिक्ये निधायाद्य पयोदधीनि बहिरयां व्रजनायिकायाम् । 
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्द स्मराम ॥५॥ 

कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गे नटनप्रियन्तम् । 
तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि ॥६॥ 

उलुखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुनमङ्गलीलम् । 
उत्फुल्लपद्मायतचारुनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥७॥ 

आलोक्य मातुर्मुखमादेण स्तन्यं पिबन्तं सरसीरुहाक्षम् । 
सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ॥८॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें