https://youtu.be/U2OyyvVb9Dw
https://youtu.be/OlJihB6r5tk
बृहदीश्वर स्तोत्र
प्रवरं प्रभुमव्ययरूपमजं
हरिकेशमपारकृपाजलधिम्।
अभिवाद्यमनामयमाद्यसुरं
भज रे बृहदीश्वरमार्तिहरम्।
हरिकेशमपारकृपाजलधिम्।
अभिवाद्यमनामयमाद्यसुरं
भज रे बृहदीश्वरमार्तिहरम्।
रविचन्द्रकृशानुसुलोचन-
मम्बिकया सहितं जनसौख्यकरम्।
बहुचोलनृपालनुतं विबुधं
भज रे बृहदीश्वरमार्तिहरम्।
हिमपर्वतराजसुतादयितं
हिमरश्मिविभूषितमौलिवरम्।
हतपापसमूहमनेकतनुं
भज रे बृहदीश्वरमार्तिहरम्।
हरिकेशममोघकरं सदयं
परिरञ्जितभक्तहृदम्बुरुहम्।
सुरदैत्यनतं मुनिराजनुतं
भज रे बृहदीश्वरमार्तिहरम्।
|
त्रिपुरान्तकरूपिणमुग्रतनुं
महनीयमनोगतदिव्यतमम्।
जगदीश्वरमागमसारभवं
भज रे बृहदीश्वरमार्तिहरम्।
त्रिपुरान्तकरूपिणमुग्रतनुं
महनीयमनोगतदिव्यतमम्।
जगदीश्वरमागमसारभवं
भज रे बृहदीश्वरमार्तिहरम्।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें