सोमवार, 18 जुलाई 2022

विश्वनाथ ध्यानम् / स्वर : पण्डित आशीष तिवारी

 https://youtu.be/WqaPI9NMrCc 

कण्ठे यस्य लसत्कराल-गरलं गङ्गाजलं मस्तके
वामाङ्गे गिरिराजराज-तनया जाया भवानी सती ।
नन्दि-स्कन्द-गणाधिराज-सहितः श्रीविश्वनाथप्रभुः
काशी-मन्दिर-संस्थितोऽखिलगुरुः देयात् सदा मङ्गलम् ॥

हस्ताम्भोज-युगस्थ-कुम्भयुगलादुद्धृत्य तोयं शिरः
सिञ्चन्तं करयोर्युगेन दधतं स्वाङ्के सकुम्भौ करौ ।
अक्ष-स्रग्-मृगहस्तमम्बुजगतं मूर्द्धस्थचन्द्रं स्रवत्
पीयूषोऽत्र तनुं भजे स-गिरिजं मृत्युञ्जयं त्र्यम्बकम् ॥ 

कण्ठे यस्य विराजते हि गरलं , गंगाजलम् मस्तके ।
वामांगे गिरिराज राजतनया जाया भवानी स्थिता: ।।
नन्दी स्कन्द गणाधिनाथ सहित: केदारनाथ प्रभो ।
केदारांचल संस्थिता हि सतत् कुर्यात सदा मङ्गलम्।।

चंद्रोदभाषित शेखरे स्मरहरे गंगाधरे शंकरे!
सर्पैभूषितकण्ठकर्णविवरे नेत्रोस्थवैश्वानरे!
दंतित्वकृतसुन्दराम्बरधरे त्रैलोक्य सारे हरे!
मोक्षाार्थम कुरू चितवृतिमचलाममन्यस्तुतिमकर्भि!!

कण्ठे यस्य विराजते हि गरलं शीर्षे च मन्दाकिनी,
वामाङ्के गिरिजाननं कटितटे शार्दूलचर्माम्बरम् ।
माया यस्य रुणद्धि विश्वमखिलं पायात् स नःशङ्करो
जम्बुवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें