रविवार, 3 मार्च 2024

आदौ रामतपोवनादिगमनं...एवं अन्य श्लोक / स्वर : अमृता चतुर्वेदी उपाध्याय

https://youtu.be/438CSS_q-Mo.  

एक श्लोकी रामायण आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् । वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं पश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम् ॥ -१

रामादौ जननं कुमारगमनं यज्ञप्रतीपालनं शापादुद्धरणं धनुर्विदलनं सीताङ्गनोद्वाहनम् । लङ्काया दहनं समुद्रतरणं सौमित्रिसम्मोहनं रक्षः संहरणं स्वराज्यभवनं चैतद्धि रामायणम् ॥ -२ जन्मादौ क्रतुरक्षणं मुनिपतेः स्थाणोर्धनुर्भञ्जनं वैदेहीग्रहणं पितुश्च वचनाद्घोराटवीगाहनम् । कोदण्डग्रहणं खरादिमथनं मायामृगच्छेदनं बद्धाब्धिक्रमणं दशास्यनिधनं चैतद्धि रामायणम् ॥-३ एक श्लोकी भागवत आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम् मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् । कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम् एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ।

एक श्लोकी महाभारत

आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनं
द्यूते श्रीहरणं वने विहरणं मत्स्यालये वर्धनम् ।
लीलागोग्रहणं रणे वितरणं सन्धिक्रियाजृम्भणं
भीष्मद्रोणसुयोधनादिमथनं एतन्महाभारतम् ॥

एक श्लोकी दुर्गा सप्तशती या अंबा मधुकैटभ प्रमथिनी,या माहिषोन्मूलिनी, या धूम्रेक्षण चन्ड मुंड मथिनी,या रक्तबीजाशिनी, शक्तिः शुंभ निशुंभ दैत्य दलिनी,या सिद्धलक्ष्मी: परा, सादुर्गा नवकोटि विश्व सहिता, माम् पातु विश्वेश्वरी एक श्लोकी-आदि शंकराचार्य किं ज्योतिस्तव भानुमानहनि मे रात्रौ प्रदीपादिकम् स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे । चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शने किं तत्राहमतो भवान् परमकं ज्योतिस्तदस्मि प्रभो ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें